Ganesha Strotram

Shree Ekdant Stotram -श्री एकदन्त स्तोत्रम् (मुद्गलपुराणोक्तम्)

Ekadanta Ganesh Stotram

॥ श्री एकदन्तगणेशस्तोत्रम् ॥

॥ श्रीगणेशाय नमः ॥

मदासुरं सुशान्तं वै दृष्ट्वा विष्णुमुखाः सुराः । भृग्वादयश्च मुनय एकदन्तं समाययुः ॥ १ ॥

प्रणम्य तं प्रपूज्यादौ पुनस्तं नेमुरादरात् । तुष्टुवुर्हर्षसंयुक्ता एकदन्तं गणेश्वरम् ॥ २ ॥

॥ देवर्षय ऊचुः ॥

सदात्मरूपं सकलादिभूत-ममायिनं सोऽहमचिन्त्यबोधम् । अनादि-मध्यान्त-विहीनमेकं तमेकदन्तं शरणं व्रजामः ॥ ३ ॥

 

अनन्त-चिद्रूप-मयं गणेशं ह्यभेद-भेदादि-विहीनमाद्यम् । हृदि प्रकाशस्य धरं स्वधीस्थं तमेकदन्तं शरणं व्रजामः ॥ ४ ॥

 

विश्वादिभूतं हृदि योगिनां वै प्रत्यक्षरूपेण विभाान्तमेकम् । सदा निरालम्ब-समाधिगम्यं तमेकदन्तं शरणं व्रजामः ॥ ५ ॥

 

स्वबिम्बभावेन विलासयुक्तं बिन्दुस्वरूपा रचिता स्वमाया । तस्यां स्ववीर्यं प्रददाति यो वै तमेकदन्तं शरणं व्रजामः ॥ ६ ॥

 

त्वदीय-वीर्येण समर्थभूता माया तया संरचितं च विश्वम् । नादात्मकं ह्यात्मतया प्रतीतं तमेकदन्तं शरणं व्रजामः ॥ ७ ॥

 

त्वदीय-सत्ताधरमेकदन्तं गणेशमेकं त्रयबोधितारम् । सेवन्त आपुस्तमजं त्रिसंस्थास्तमेकदन्तं शरणं व्रजामः ॥ ८ ॥

 

ततस्त्वया प्रेरित एव नादस्तेनेदमेवं रचितं जगद्वै । आनन्दरूपं समभावसंस्थं तमेकदन्तं शरणं व्रजामः ॥ ९ ॥

तदेव विश्वं कृपया तवैव सम्भूतमाद्यं तमसा विभातम् । अनेकरूपं ह्यजमेकभूतं तमेकदन्तं शरणं व्रजामः ॥ १० ॥

 

ततस्त्वया प्रेरितमेव तेन सृष्टं सुसूक्ष्मं जगदेकसंस्थम् । सत्त्वात्मकं श्वेतमनन्तमाद्यं तमेकदन्तं शरणं व्रजामः ॥ ११ ॥

 

तदेव स्वप्नं तपसा गणेशं संसिद्धिरूपं विविधं वभूव । सदेकरूपं कृपया तवाऽपि तमेकदन्तं शरणं व्रजामः ॥ १२ ॥

 

सम्प्रेरितं तच्च त्वया हृदिस्थं तथा सुसृष्टं जगदंशरूपम् । तेनैव जाग्रन्मयमप्रमेयं तमेकदन्तं शरणं व्रजामः ॥ १३ ॥

जाग्रत्स्वरूपं रजसा विभातं विलोकितं तत्कृपया यदैव । तदा विभिन्नं भवदेकरूपं तमेकदन्तं शरणं व्रजामः ॥ १४ ॥

 

एवं च सृष्ट्वा प्रकृतिस्वभावात्तदन्तरे त्वं च विभासि नित्यम् । बुद्धिप्रदाता गणनाथ एकस्तमेकदन्तं शरणं व्रजामः ॥ १५ ॥

 

त्वदाज्ञया भान्ति ग्रहाश्च सर्वे नक्षत्ररूपाणि विभान्ति खे वै । आधारहीनानि त्वया धृतानि तमेकदन्तं शरणं व्रजामः ॥ १६ ॥

 

त्वदाज्ञया सृष्टिकरो विधाता त्वदाज्ञया पालक एव विष्णुः । त्वदाज्ञया संहरको हरोऽपि तमेकदन्तं शरणं व्रजामः ॥ १७ ॥

 

यदाज्ञया भूर्जलमध्यसंस्था यदाज्ञयाऽपः प्रवहन्ति नद्यः । सीमां सदा रक्षति वै समुद्रस्तमेकदन्तं शरणं व्रजामः ॥ १८ ॥

 

यदाज्ञया देवगणो दिविस्थो ददाति वै कर्मफलानि नित्यम् । यदाज्ञया शैलगणोऽचलो वै तमेकदन्तं शरणं व्रजामः ॥ १९ ॥

 

यदाज्ञया शेष इलाधरो वै यदाज्ञया मोहप्रदश्च कामः । यदाज्ञया कालधरोऽर्यमा च तमेकदन्तं शरणं व्रजामः ॥ २० ॥

यदाज्ञया वाति विभाति वायुर्यदाज्ञयाऽग्निर्जठरादिसंस्थः । यदाज्ञया वै सचराऽचरं च तमेकदन्तं शरणं व्रजामः ॥ २१ ॥

सर्वान्तरे संस्थितमेकगूढं यदाज्ञया सर्वमिदं विभाति । अनन्तरूपं हृदि बोधकं वै तमेकदन्तं शरणं व्रजामः ॥ २२ ॥

यं योगिनो योगबलेन साध्यं कुर्वन्ति तं कः स्तवनेन स्तौति । अतः प्रणामेन सुसिद्धिदोऽस्तु तमेकदन्तं शरणं व्रजामः ॥ २३ ॥

॥ गृत्समद उवाच ॥

एवं स्तुत्वा च प्रह्लाद देवाः समुनयश्च वै । तूष्णीं भावं प्रपद्यैव ननृतुर्हर्षसंयुताः ॥ २४ ॥

स तानुवाच प्रीतात्मा ह्येकदन्तः स्तवेन वै । जगाद तान् महाभागान् देवर्षीन् भक्तवत्सलः ॥ २५ ॥

॥ एकदन्त उवाच ॥

प्रसन्नोऽस्मि च स्तोत्रेण सुराः सर्षिगणाः किल । वृणुध्वं वरदोऽहं वो दास्यामि मनसीप्सितम् ॥ २६ ॥

भवत्कृतं मदीयं वै स्तोत्रं प्रीतिप्रदं मम । भविष्यति न सन्देहः सर्वसिद्धिप्रदायकम् ॥ २७ ॥

यं यमिच्छति तं तं वै दास्यामि स्तोत्रपाठतः । पुत्र-पौत्रादिकं सर्वं लभते धन-धान्यकम् ॥ २८ ॥

गजाश्वादिकमत्यन्तं राज्यभोगं लभेद् ध्रुवम् । भुक्तिं मुक्तिं च योगं वै लभते शान्तिदायकम् ॥ २९ ॥

मारणोच्चाटनादीनि राज्यबन्धादिकं च यत् । पठतां शृण्वतां नृणां भवेच्च बन्धहीनता ॥ ३० ॥

एकविंशतिवारं च श्लोकांश्चैवैकविंशतिम् । पठते नित्यमेवं च दिनानि त्वेकविंशतिम् ॥ ३१ ॥

न तस्य दुर्लभं किंचित् त्रिषु लोकेषु वै भवेत् । असाध्यं साधयेन् मर्त्यः सर्वत्र विजयी भवेत् ॥ ३२ ॥

नित्यं यः पठते स्तोत्रं ब्रह्मभूतः स वै नरः । तस्य दर्शनतः सर्वे देवाः पूता भवन्ति वै ॥ ३३ ॥

एवं तस्य वचः श्रुत्वा प्रहृष्टा देवतर्षयः । ऊचुः करपुटाः सर्वे भक्तियुक्ता गजाननम् ॥ ३४ ॥

॥ इति श्री एकदन्तस्तोत्रं सम्पूर्णम् ॥